वांछित मन्त्र चुनें

माकि॑र्न ए॒ना स॒ख्या वि यौ॑षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषे॑: । वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ ॥

अंग्रेज़ी लिप्यंतरण

mākir na enā sakhyā vi yauṣus tava cendra vimadasya ca ṛṣeḥ | vidmā hi te pramatiṁ deva jāmivad asme te santu sakhyā śivāni ||

पद पाठ

माकिः॑ । नः॒ । ए॒ना । स॒ख्या । वि । यौ॒षुः॒ । तव॑ । च॒ । इ॒न्द्र॒ । वि॒ऽम॒दस्य॑ । च॒ । ऋषेः॑ । वि॒द्म । हि । ते॒ । प्रऽम॑तिम् । दे॒व॒ । जा॒मि॒ऽवत् । अ॒स्मे इति॑ । ते॒ । स॒न्तु॒ । स॒ख्या । शि॒वानि॑ ॥ १०.२३.७

ऋग्वेद » मण्डल:10» सूक्त:23» मन्त्र:7 | अष्टक:7» अध्याय:7» वर्ग:9» मन्त्र:7 | मण्डल:10» अनुवाक:2» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (तव) तेरे (च) और (विमदस्य-ऋषेः) राष्ट्र में विशेष हर्षित करनेवाले तुझे प्राप्त प्रजागण के (एना सख्या) ये सखिभाव दोनों के हितकर (माकिः-न वियौषुः) कदापि न वियुक्त हों, न शिथिल हों, (देव) हे सुखदाता राजन् ! (ते प्रमतिं विद्म हि) तेरी प्रकृष्ट-ऊँची प्रजापालनपरायणा मति को हम प्रजाजन जानते हैं (अस्मे) हमारे लिये (ते) और तेरे लिये (सख्या शिवानि) समान राष्ट्रशासक शास्यसम्बन्धी कर्म कल्याणकर (जामिवत् सन्तु) वंशज शाश्वतिक स्थिर होवें ॥७॥
भावार्थभाषाः - शासक और शास्य प्रजा वर्ग के पारस्परिक सखिभाव सदा बने रहने चाहिए और वंशज सम्बन्ध के समान कल्याणकारी होवें ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे राजन् ! (तव विमदस्य-ऋषेः-च) तव तथा त्वदीयराष्ट्रे विशिष्टहर्षयितुस्त्वां प्राप्तस्य प्रजागणस्य (एना सख्या) एतानि सखित्वानि खलूभयहितकराणि (माकिः-न वियौषुः) न कदाचिद् वियुज्येरन्-न शिथिलानि भवेयुः (देव) हे सुखदातः ! राजन् ! (ते प्रमतिं विद्म हि) तव प्रकृष्टां राज्यशासनमतिं प्रजापालनपरायणां मतिं वयं प्रजाजना जानीमः (अस्मे) अस्मभ्यम् (ते) तुभ्यं च (सख्या शिवानि) समानराज्यशासकशास्यसम्बन्धिकर्माणि कल्याणकराणि (जामिवत् सन्तु) वंश्यानि शाश्वतिकानि स्थिराणि भवन्तु ॥७॥